अथर्ववेद - काण्ड 2/ सूक्त 35/ मन्त्र 4
सूक्त - अङ्गिराः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वकर्मा सूक्त
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम्। बृह॒स्पत॑ये महिष द्यु॒मन्नमो॒ विश्व॑कर्म॒न्नम॑स्ते पा॒ह्यस्मान् ॥
स्वर सहित पद पाठघो॒रा: । ऋष॑य: । नम॑: । अ॒स्तु॒ । ए॒भ्य॒: । चक्षु॑: । यत् । ए॒षा॒म् । मन॑स: । च॒ । स॒त्यम् । बृह॒स्पत॑ये । म॒हि॒ष॒ । द्यु॒ऽमत् । नम॑: । विश्व॑ऽकर्मन् । नम॑: । ते॒ । पा॒हि॒ । अ॒स्मान् ॥३५.४॥
स्वर रहित मन्त्र
घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम्। बृहस्पतये महिष द्युमन्नमो विश्वकर्मन्नमस्ते पाह्यस्मान् ॥
स्वर रहित पद पाठघोरा: । ऋषय: । नम: । अस्तु । एभ्य: । चक्षु: । यत् । एषाम् । मनस: । च । सत्यम् । बृहस्पतये । महिष । द्युऽमत् । नम: । विश्वऽकर्मन् । नम: । ते । पाहि । अस्मान् ॥३५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 35; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–घोराः। अ० १।१८।३। हन–अच्, घुरादेशः। यद्वा। घुर ध्वनौ, भीमभवने–अच्। भयानकाः। भीमाः। ऋषयः। म० २। मुनयः। आप्तपुरुषाः। नमः। अ० १।१०।२। णमु शब्दनत्योः असुन्। अन्नम्–निघ० ३।७। सत्कारः। अस्तु। भवतु। एभ्यः। ऋषिभ्यः। चक्षुः। अ० १।३३।४। दृष्टिः। नेत्रम्। एषाम्। ऋषीणाम्। मनसः। अ० १।१।२। अन्तःकरणस्य। सत्यम्। अ० २।१४।४। तथ्यम्। यथार्थम्। बृहस्पतये। अ० १।८।२। बृहतां महतां लोकानां पत्ये स्वामिने। महिष। अविमह्योष्टिषच्। उ० १।४४। इति मह पूजायाम्–टिषच्। महिषाः=महान्तः–निरु० ७।२६। मह्यते पूज्यते सर्वैः, यद्वा, महति पूजयति शुभगुणानिति। हे महन्–निघ० ३।३। पूजनीय। द्युमत्। सम्पदादित्वात् क्विप्। वा० पा० ३।३।९४। इति द्यु अभिगमने, यद्वा, द्युत दीप्तौ–क्विप्। मतुपि तलोपः पृषोदरादित्वात्, पा० ६।३।१०९। यद्वा, दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु–विच्। द्योतनं दिव्। दिव उत्। पा० ६।१।१३१। इति मतुपि उत्त्वम्। दीप्तिमत्। कान्तियुक्तम्। स्पष्टम्। नमः। सत्कारः। विश्वकर्मन्। म० १। हे सर्वजनक परमात्मन्। पाहि। त्वं रक्ष। अन्यद् व्याख्यातम् ॥
इस भाष्य को एडिट करें