Loading...
अथर्ववेद > काण्ड 2 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
    सूक्त - पतिवेदन देवता - अग्निः छन्दः - भुरिगनुष्टुप् सूक्तम् - पतिवेदन सूक्त

    आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥

    स्वर सहित पद पाठ

    आ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम्‌ । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥


    स्वर रहित मन्त्र

    आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥

    स्वर रहित पद पाठ

    आ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम्‌ । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1

    टिप्पणीः - १–नः। अस्मान्। अग्ने। हे अग्निवत्तेजस्विन् राजन्। सुमतिम्। सु+मन बोधे–क्तिन्। शोभनबुद्धियुक्ताम्। सम्भलः। सम्+भल परिभाषणहिंसादानेषु निरूपणे च–पचाद्यच्। सम्यग् भलते परिभाषते निरूपयति वा स सम्भलः। यथाविधि परिभाषकः यथाशास्त्रं निरूपकः। आ+गमेत्। द्विकर्मकः। आगत्य गमयेत् नयेत्। इमाम्। प्रसिद्धाम्। गुणवतीम्। कुमारीम्। कुमार क्रीडने–अच्। वयसि प्रथमे। पा० ४।१।२०। इति ङीप्। कन्याम्। सह। सहितः। नः। अस्मदर्थम्। भगेन। भजनीयेन गुणेन ऐश्वर्येण। जुष्टा। प्रीता सेविता। वरेषु। वृञ् वरणे–अप्। यद्वा वर ईप्से–घञ् श्रेष्ठेषु वरयितृषु, वरपक्षीयेषु। समनेषु। सम्+अन जीवने–घञ्। यद्वा। सम्+आङ्+णीञ् प्रापणे–अच्। सम्यग् अनिति आनीयते वा। समानं तुल्यं साधु वा। समानस्य सभावः। मन बोधे–पचाद्यच्। साधुमननयुक्तेषु। वल्गुः। वलेर्गुक् च। उ० १।१९। इति वल प्राणने–उ प्रत्ययः, गुक् आगमः। रुचिरा। मनोहरा। ओषम्। उष दाहे, वधे–घञ्। क्षिप्रम्। निघ० २।१५। पत्या। स्वामिना सह। सौभगम्। सुभग–अण्। सुभगत्वम्। अस्यै। कुमार्यै। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top