अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 8
सूक्त - पतिवेदनः
देवता - ओषधिः
छन्दः - निचृत्पुरउष्णिक्
सूक्तम् - पतिवेदन सूक्त
आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः॑। त्वम॑स्यै धेहि ओषधे ॥
स्वर सहित पद पाठआ । ते॒ । न॒य॒तु॒ । स॒वि॒ता । न॒य॒तु॒ । पति॑: । य: । प्र॒ति॒ऽका॒म्य᳡: । त्वम् । अ॒स्यै॒ । धे॒हि॒ । ओ॒ष॒धे॒ ॥३६.८॥
स्वर रहित मन्त्र
आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः। त्वमस्यै धेहि ओषधे ॥
स्वर रहित पद पाठआ । ते । नयतु । सविता । नयतु । पति: । य: । प्रतिऽकाम्य: । त्वम् । अस्यै । धेहि । ओषधे ॥३६.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८–आ। समन्तात्। अनुकूलम्। ते। तुभ्यम्। नयतु। णीञ् नयने। प्रेरयतु। नायकं करोतु। सविता। अ० १।१८।२। सर्वप्रेरकः। सर्वोत्पादकः परमेश्वरः। पतिः। म० ३। ऐश्वर्यवान्। भर्त्ता। प्रतिकाम्यः। म० ५। प्रतिज्ञया कमनीयः। अस्यै। वधूहितार्थम्। धेहि। डुधाञ् धारणपोषणयोः–लोट्। धारय। पोषय। वर्धय। ओषधे। अ० १।२३।१। हे तापभक्षक परमेश्वर ॥
इस भाष्य को एडिट करें