अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
स्वर सहित पद पाठअ॒ग्नि: । न॒: । शत्रू॑न् । प्रति॑ । ए॒तु॒ । वि॒द्वान् । प्र॒ति॒ऽदह॑न् । अ॒भिऽश॑स्तिम् । अरा॑तिम् ।स: । सेना॑म् । मो॒ह॒य॒तु॒ । परे॑षाम् । नि:ऽह॑स्तान् । च॒ । कृ॒ण॒व॒त् । जा॒तऽवे॑दा: ॥१.१॥
स्वर रहित मन्त्र
अग्निर्नः शत्रून्प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्। स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥
स्वर रहित पद पाठअग्नि: । न: । शत्रून् । प्रति । एतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।स: । सेनाम् । मोहयतु । परेषाम् । नि:ऽहस्तान् । च । कृणवत् । जातऽवेदा: ॥१.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(शब्दार्थव्याकरणादिप्रक्रिया-अग्निः)। अ० १।६।२। अङ्गति गच्छति जानाति व्याप्नोतीति वा। विद्वान्। अग्निवत्तेजस्वी। अग्निशब्दो भगवता यास्केन बहुधा व्याख्यातः-निरु० ७।१४। नः अस्माकम्। शत्रून्। अ० २।५।३। शातयितॄन्। द्वेष्वान्। (प्रत्येतु)। प्रतिमुखं। गच्छतु। (विद्वान्)। अ० २।१।२। विद ज्ञाने-शतृ, वसुरादेशः। जयोपायं जानन्। (प्रतिदहन्)। प्रातिकूल्येन भस्मीकुर्वन्। (अभिशस्तिम्)। शसु हिंसायाम् क्तिन्। मिथ्यापवादम्। (अरातिम्)। शत्रुताम्। (सः)। राजा। (सेनाम्)। कॄवृजॄसिद्रु०। उ०। ३।१०। इति षिञ् बन्धने-न। सेना सेश्वरा समानगतिर्वा निरु० २।११। सिनोति बध्नाति व्यूहं युद्धार्थम्। सैन्यम्। (मोहयतु)। व्याकुलां करोतु। (परेषाम्) शत्रूणाम्। (निर्हस्तान्)। हस्तव्यापारशून्यान्। आयुधग्रहणासमर्थान्। (कृणवत्)। कृवि हिंसाकरणयोः-लिङर्थे लेट्। अडागमः। कुर्यात्। (जातवेदाः)। अ० १।७।२। जातप्रज्ञानः। जातधनः ॥
इस भाष्य को एडिट करें