अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा। चक्षूं॑ष्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ॥
स्वर सहित पद पाठइन्द्र॑: । सेना॑म् । मो॒ह॒य॒तु॒ । म॒रुत॑: । घ्न॒न्तु॒ । ओज॑सा । चक्षूं॑षि । अ॒ग्नि: । आ । द॒त्ता॒म् । पुन॑: । ए॒तु॒ । परा॑ऽजिता ॥१.६॥
स्वर रहित मन्त्र
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा। चक्षूंष्यग्निरा दत्तां पुनरेतु पराजिता ॥
स्वर रहित पद पाठइन्द्र: । सेनाम् । मोहयतु । मरुत: । घ्नन्तु । ओजसा । चक्षूंषि । अग्नि: । आ । दत्ताम् । पुन: । एतु । पराऽजिता ॥१.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इन्द्रः) प्रतापी सूर्यः। (मरुतः। दोषनाशका वायुवेगाः। (घ्नन्तु)। हन-लोट्। नाशयन्तु। (ओजसा)। शस्त्रास्त्रादीनां बलेन। (चक्षूंषि)। अक्षीणि। नेत्राणि। (अग्निः)। अग्निप्रयोगः। (आ, दत्ताम्)। अपहरतु। (पुनः)। पश्चात्। निवर्त्य। (एतु) गच्छतु। (पराजिता)। पराभूता सती। अन्यत् सुगमं व्याख्यातं च ॥
इस भाष्य को एडिट करें