अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - विराड्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्। अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
स्वर सहित पद पाठयू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । ई॒दृशे॑ । स्थ॒ । अ॒भि । प्र । इ॒त॒ । मृ॒णत॑ । सह॑ध्वम् । अमी॑मृणन् । वस॑व: । ना॒थि॒ता: । इ॒मे । अ॒ग्नि: । हि । ए॒षा॒म् । दू॒त: । प्र॒ति॒ऽएतु॑ । वि॒द्वान् ॥१.२॥
स्वर रहित मन्त्र
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम्। अमीमृणन्वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥
स्वर रहित पद पाठयूयम् । उग्रा: । मरुत: । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् । अमीमृणन् । वसव: । नाथिता: । इमे । अग्नि: । हि । एषाम् । दूत: । प्रतिऽएतु । विद्वान् ॥१.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - टिप्पणी−ʻमरुतःʼ देवताओं के लिये अ० १।२०।१ देखिये ॥ २−(उग्राः)। उत्कठाः। (मरुतः) अ० १।२०।१। मारयन्ति शत्रून् दोषान् वा। शत्रुनाशकाः शूराः। (ईदृशे)। इदम्+दृशिर् प्रेक्षे-कञ्। एतत्सदृशे कर्मणि संग्राम-लक्षणे। (स्थ)। भवथ। (अभि)। आभिमुख्येन। (प्रेत)। इण्गतौ। प्रकर्षेण गच्छत। (मृणत)। मृण हिंसायाम्। मारयत। (सहध्वम्)। अभिभवत। (अमीमृणत्)। मृणतेर्ण्यन्ताच्छान्दसे लुङि चङि। उर्ऋत्। नित्यं छन्दसि। पा० ७।४।७, ८। इति ऋदादेशः। नाशितवन्तः। (वसवः)। अ० १।९।१। प्रशस्ता देवाः। (नाथिताः)। नाथ याच्ञोपतापैश्वर्याशीःषु-क्त। प्रार्थिताः सन्तः। (इमे)। प्रशंसिताः (अग्निः)। ज्ञानवान् तेजस्वी वा राजा (हि)। अवश्यम्। (एषाम्)। उपस्थितानां शत्रूणाम्। (दूतः)। अ० १।७।६। टुदु उपतापे-क्त, दीर्घश्छ। दुनोत्युपतापयतीति। संतापकः। (प्रत्येतु)। प्रतिगच्छतु। (विद्वान्)। नीतिकुशलः ॥
इस भाष्य को एडिट करें