Loading...
अथर्ववेद > काण्ड 3 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 4
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - शत्रु सेनासंमोहन सूक्त

    प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥

    स्वर सहित पद पाठ

    प्रऽसू॑त: । इन्द्र: । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्र॑: । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।ज॒हि । प्र॒तीच॑: । अ॒नूच॑: । परा॑च: । विष्व॑क् । स॒त्यम् । कृ॒णु॒हि॒ । चि॒त्तम् । ए॒षा॒म्॥१.४॥


    स्वर रहित मन्त्र

    प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्। जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥

    स्वर रहित पद पाठ

    प्रऽसूत: । इन्द्र: । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्र: । प्रऽमृणन् । एतु । शत्रून् ।जहि । प्रतीच: । अनूच: । पराच: । विष्वक् । सत्यम् । कृणुहि । चित्तम् । एषाम्॥१.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 4

    टिप्पणीः - ४−(प्रसूतः)। षू क्षेपे-क्त। प्रेरितः। प्रवर्त्तितः। (इन्द्र)। हे प्रतापिन् राजन्। (प्रवता)। उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गात् साधने धात्वर्थे वर्त्तमानात् स्वार्थे वतिः प्रत्ययः। प्रवत उद्वतो निवत इत्यवतिर्गतिकर्मा-निरु० १०।२०। प्रकृष्टगत्या मार्गेण, प्रावनेन वा। (हरिभ्याम्)। हृपिषिरुहि०। उ० ४।११९। इति हृञ् हरणे-इन्। हरणं स्वीकारः प्रापणं स्तेयं नाशनं च। हरिः स्वीकारो ग्रहणं, प्रापणं दानं च ताभ्यां ग्रहणदानाभ्याम्। (ते)। तव (वज्रः)। दण्डरूपः। (प्रमृणन्)। प्रकर्षेण हिंसन्। (प्र, एतु)। प्रगच्छतु। (शत्रून्)। अरातीन्। (जहि)। हन वधगत्योः। विनाशय। (प्रतीचः)। ऋत्विग्दधृक्०। पा० ३।२।५९। इति प्रति+अञ्चतेः क्विन् अनिदिताम्०। पा० ६।४।२४। इति न लोपः। शसि। अचः। पा० ६।४।१३८। इत्यलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। प्रतिमुखमागच्छतः शत्रून्। (अनूचः)। अनु+अञ्चु गतिपूजनयोः-क्विन्। पूर्ववत् सिद्धिः। अनु पश्चाद् आगच्छतः। (पराचः)। परा+अञ्चु-क्विन्। पूर्ववत् सिद्धिः। परा तिरस्कृत्य पराङ्मुखं वा गच्छतः। (विष्वक्)। विषु+अञ्चु-क्विन्। सर्वतः। (सत्यम्)। सद्भ्यो हितम्। (कृणुहि)। उतश्च प्रत्ययाच्छन्दसि वा वचनम्। वा० पा० ६।४।१०६। इति हेरलुक्। कृणु, कुरु। (चित्तम्)। अन्तःकरणम् (एषाम्)। शत्रूणाम् ॥

    इस भाष्य को एडिट करें
    Top