अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 4
सूक्त - पतिवेदनः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - पतिवेदन सूक्त
यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑। ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ॥
स्वर सहित पद पाठयथा॑ । आ॒ऽख॒र: । म॒घ॒ऽव॒न् । चारु॑: । ए॒ष: । प्रि॒य: । मृ॒गाणा॑म् । सु॒ऽसदा॑: । ब॒भूव॑ । ए॒व । भग॑स्य । जु॒ष्टा । इ॒यम् । अ॒स्तु॒ । नारी॑ । सम्ऽप्रि॑या । पत्या॑ । अवि॑ऽराधयन्ती ॥३६.४॥
स्वर रहित मन्त्र
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव। एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥
स्वर रहित पद पाठयथा । आऽखर: । मघऽवन् । चारु: । एष: । प्रिय: । मृगाणाम् । सुऽसदा: । बभूव । एव । भगस्य । जुष्टा । इयम् । अस्तु । नारी । सम्ऽप्रिया । पत्या । अविऽराधयन्ती ॥३६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–यथा। येन प्रकारेण। आखरः। आङ् पूर्वात् खनु अवदारणे–डर प्रत्ययः, डित्वाट् टिलोपः। आखन्यते, आखरः। गर्तः। विलम्। मघवन्। अ० २।५।७। हे पूजनीय। हे धनवन् परमेश्वर। चारुः। अ० २।५।१। शोभनः। मनोज्ञः। प्रियः। प्री–क। हृद्यः। सुखकरः। मृगाणाम्। मृग अन्वेषणे–इगुपधत्वात् कः। पशूनाम्। सुषदाः। षद्लृ विशरणगत्यवसादनेषु–असुन्। सुखेन स्थातुं योग्यः। सुखस्थानः। एव। एवम्। तथा। भगस्य। ऐश्वर्यवतः पत्युः। जुष्टा। प्रीता। अस्तु। भवतु। सम्प्रिया। सम्प्रियमाणा। पत्या। भर्त्रा। अविराधयन्ती। अ+विपूर्वात् राध वियोगे–शतृ, ङीप्। वियोगम् अकुर्वाणा। अन्यद् गतम् ॥
इस भाष्य को एडिट करें