Loading...
अथर्ववेद > काण्ड 2 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 4
    सूक्त - शौनकः देवता - अग्निः छन्दः - चतुष्पदार्षी पङ्क्तिः सूक्तम् - सपत्नहाग्नि

    क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व। स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥

    स्वर सहित पद पाठ

    क्ष॒त्रेण॑ । अ॒ग्ने॒ । स्वेन॑ । सम् । र॒भ॒स्व॒ । मि॒त्रेण॑ । अ॒ग्ने॒ । मि॒त्र॒ऽधा: । य॒त॒स्व॒ । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । राज्ञा॑म् । अ॒ग्ने॒ । वि॒ऽहव्य॑: । दी॒दि॒हि॒ । इ॒ह ॥६.४॥


    स्वर रहित मन्त्र

    क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व। सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥

    स्वर रहित पद पाठ

    क्षत्रेण । अग्ने । स्वेन । सम् । रभस्व । मित्रेण । अग्ने । मित्रऽधा: । यतस्व । सऽजातानाम् । मध्यमेऽस्था: । राज्ञाम् । अग्ने । विऽहव्य: । दीदिहि । इह ॥६.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 4

    टिप्पणीः - ४–क्षत्रेण। गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। उ० ४।१६७। इति क्षद गतिहिंसनयोः, रक्षणे च–त्र प्रत्ययः। बलेन, क्षत्रियत्वेन। धनेन–निघ० २।१०। अग्ने। तेजस्विन् विद्वन्। सम्–रभस्व। रभ राभस्ये=उत्सुकीभावे। संरम्भम् उत्साहं कुरु। मित्रेण। सुहृद्गणेन। मित्रधाः। मित्र+धाञ्–विच् मित्राणां पोषकः सन्। यतस्व। यती प्रयत्ने। प्रयत्नं कुरु। सजातानाम्। समानजन्मनाम्। तुल्यावस्थानाम्। मध्यमेष्ठाः। मध्ये भवो मध्यमः। मध्यान्मः पा० ४।३।८। इति मध्य–म। ष्ठा गतिनिवृत्तौ–विच्। वा क्विप्। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। सुषामादिषु च। पा० ८।३।९८। इति षत्वम्। मध्यमेषु न्यायकारिषु प्रधानेषु स्थितः। राज्ञाम्। ईश्वराणां क्षत्रियाणां मध्ये। विहव्यः। ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति ह्वेञ् आह्वाने अप् संप्रसारणं च। ततः। भवे छन्दसि। पा० ४।४।११०। इति यत्। विविधमाह्वातव्यः। दीदिहि। म० १। दीप्यस्व। इह। अत्र ॥

    इस भाष्य को एडिट करें
    Top