Loading...
अथर्ववेद > काण्ड 2 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 1
    सूक्त - शौनकः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - सपत्नहाग्नि

    समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    समा॑: । त्वा॒ । अ॒ग्ने॒ । ऋ॒तव॑: । व॒र्ध॒य॒न्तु॒ । स॒म्ऽव॒त्स॒रा: । ऋष॑य: । यानि॑ । स॒त्या । सम् । दि॒व्येन॑ । दी॒दि॒हि॒ । रो॒च॒नेन॑ । विश्वा॑: । आ । भा॒हि॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥६.१॥


    स्वर रहित मन्त्र

    समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या। सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    समा: । त्वा । अग्ने । ऋतव: । वर्धयन्तु । सम्ऽवत्सरा: । ऋषय: । यानि । सत्या । सम् । दिव्येन । दीदिहि । रोचनेन । विश्वा: । आ । भाहि । प्रऽदिश: । चतस्र: ॥६.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 1

    टिप्पणीः - १–समाः। षम वैक्लव्ये–पचाद्यच्। अविषमाः। साधवः। अनुकूलाः। अग्ने ! हे ज्ञानिन् ! अग्निवत्तेजस्विन्। कार्येषु व्यापनशील वा। ऋतवः। अर्तेश्च तुः। उ० २।७२। इति ऋ गतौ–तु, किच्च। वसन्तादिकालाः। वर्धयन्तु। समर्धयन्तु। संवत्सराः। सम्यग्वसन्ति भूतानि यत्र। संपूर्वाच्चित्। उ० २।७२। इति सम्+वस निवासे–सरन्। चित्त्वादन्तोदात्तः। द्वादशमासात्मकाः कालाः। वर्षाः। ऋषयः। इगुपधात् कित्। उ० ४।१२०। इति ऋष गतौ दर्शने च–इन् किच्च। ऋषति प्राप्नोति सर्वान् मन्त्रान्, ज्ञानेन पश्यति संसारं परमात्मानं च वा स ऋषिः। साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः–निरु० १।२०। ऋषिर्दर्शनात्–निरु० २।१। साक्षात्कृतधर्माणः। आप्ताः। सन्मार्गदर्शकाः। सत्या। शेर्लोपः। सत्यानि। सत्यकर्माणि। दिव्येन। अ० २।१।२। छन्दसि च। पा० ६।१।६७। इति दिव्–य प्रत्ययः। मनोज्ञेन। दीदिहि। बहुलं छन्दसि पा० २।४।६। दिवु दीप्तौ–शपः श्लुः। तुजादीनां दीर्घो०। पा० ६।१।७। इत्यभ्यासस्य दीर्घः। दीव्य। दीप्यस्व। रोचनेन। रुच दीप्तौ भावे ल्युट्। दीप्त्या। प्रकाशेन। भाहि। भा दीप्तौ अन्तर्भावितण्यर्थः। भाषय। दीपय। प्रदिशः। प्रकृष्टाः प्राच्याद्या महादिशः ॥

    इस भाष्य को एडिट करें
    Top