अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 7
सूक्त - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - इन्द्रशौर्य सूक्त
वृ॑षा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेषु अपिबत्सु॒तस्य॑। आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
स्वर सहित पद पाठवृ॒ष॒ऽयमा॑न: । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घऽवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥५.७॥
स्वर रहित मन्त्र
वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य। आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥
स्वर रहित पद पाठवृषऽयमान: । अवृणीत । सोमम् । त्रिऽकद्रुकेषु । अपिबत् । सुतस्य । आ । सायकम् । मघऽवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमऽजाम् । अहीनाम् ॥५.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७–वृषायमाणः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृषु सेचनप्रजननैश्वर्येषु–क। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति आचारे क्यङ्। अकृत्सार्वधातुकयोर्दीर्घः। पा० ७।४।२५। इति दीर्घः। शानच्। वृष इव ऐश्वर्यवानिवाचरन् पुरुषः। अवृणीत। वृञ् संभक्तौ लङ्। वृतवान्, स्वीकृतवान्। सोमम्। अ० १।६।२। षु प्रसवैश्वर्ययोः–मन्। ऐश्वर्यम्। अमृतम्। कीर्त्तिम्। त्रिकद्रुकेषु। रुशातिभ्यां क्रुन्। उ० ४।१०३। इति त्रि+कदि आह्वाने–क्रुन्। समासान्तः कप् च। त्रयाणां संसारोत्पत्तिस्थितिविनाशानाम्, अथवा, शारीरिकात्मिकसामाजिकवृद्धीणां कद्रुकेषु आह्वानेषु विधानेषु निमित्तेषु। अपिबत्। पीतवान्। अनुभूतवान्। सुतस्य। षु प्रसवैश्वर्ययोः–क्त। उत्पन्नस्य संसारस्य। सायकम्। स्यति नाशयतीति सायकः। ण्वुल्तृचौ। पा० ३।१।१३३। इति षो अन्तकर्मणि–ण्वुल्, युक् आगमः। शत्रूणां घातकं वाणं खड्गं वा। मघवा। मह्यते पूज्यतेऽसौ। श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति मह पूजायाम्–कनिन्। निपातनात् हस्य घः, अवुक् आगमश्च। पूज्यः पुरुषः। आ–अदत्त। लङि–रूपम्। आङो दोऽनास्यविहरणे। पा० १।३।२०। इत्यात्मनेपदम्। अगृह्णात्। स्वीकृतवान्। एनम्। समीपवर्तिनम् आत्मनि स्थितम्। प्रथमजाम्। अ० २।१।४। जन–विट्, आत्त्वं च। प्रथमेन प्रधानतया जातं प्रसिद्धम्। अहीनाम्। म० ५। आहन्तॄणाम् असुराणां मध्ये। अन्यद् गतमस्मिन्नेव सूक्ते ॥
इस भाष्य को एडिट करें