Loading...
अथर्ववेद > काण्ड 2 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 6
    सूक्त - भृगुराथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - इन्द्रशौर्य सूक्त

    अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष। वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥

    स्वर सहित पद पाठ

    अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य᳡म् । त॒त॒क्ष॒ । वा॒श्रा:ऽइ॑व । धे॒नव॑: । स्यन्द॑माना: । अञ्ज॑: । स॒मु॒द्रम् । अव॑ । ज॒ग्मु॒: । आप॑: ॥५.६॥


    स्वर रहित मन्त्र

    अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥

    स्वर रहित पद पाठ

    अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्रा:ऽइव । धेनव: । स्यन्दमाना: । अञ्ज: । समुद्रम् । अव । जग्मु: । आप: ॥५.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 6

    टिप्पणीः - ६–अहन्। म० ५। हतवान्। अहिम्। म० ५। सर्वतो हननशीलम्। सर्पसमानहिंसकम्। मेघसमानप्रकाशनिरोधकं पुरुषम्। पर्वते। म० ५। जातावेकवचनम्। पर्वतेषु। मेघसमानान्धकारवर्धकेषु पुरुषेषु। यद्वा, शैलप्रदेशे स्थितम्। शिश्रियाणम्। श्रिञ् सेवायां–लिटः कानच्। चित्त्वाद् अन्तोदात्तः। आश्रितम्। त्वष्टा। त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वास्याद् दीप्तिकर्मणस्त्वक्षतेर्वा स्याद् करोतिकर्मणः–निरु० ८।१३। नप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृ०। उ० २।९६। इति त्वक्षू तनूकरणे–तृन्। नित्त्वाद् आद्युदात्तः। व्यवहाराणां तनूकर्ता। सूक्ष्मदर्शी। विश्वकर्मा। इन्द्रः पुरुषः। अस्मै। अस्मै प्रयोजनाय। अहेर्हननायेत्यर्थः। वज्रम्। म० ५। कुलिशम्। स्वर्यम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति स्वृ शब्दोपतापयोः–घ। यद्वा। नन्दिग्रहिपचादि०। पा० ३।१।१३४। इति स्वर आक्षेपे–अच्। ततः। तत्र साधुः। पा० ४।४।११८। इति स्वरे उपतापे पीडने यद्वा, शत्रूणाम् आक्षेपे। तिरस्करणे साधुं योग्यम्। ततक्ष। तक्षू तनूकरणे–लिट्। तनूकृतवान्। तीक्ष्णं चकार। वाश्राः। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति वाशृ शब्दे–रक्। शब्दायमानाः। वत्सान् प्रति हंभारवयुक्ताः। धेनवः। धेट इच्च। उ० ३।३४। इति धेट् पाने–नु। नवप्रसूता गावः। स्यन्दमानाः। स्यन्दू प्रस्रवणे–लटः शानच्। प्रस्रवन्त्यः। प्रवहन्त्यः। अञ्जः। अञ्जू व्यक्तिगतिम्रक्षणेषु–क्विप्। व्यक्ताः। गमनशीलाः। समुद्रम्। अ० १।१३।३। इति सम्+उन्दी क्लेदने–रक्। जलाधारम्। सागरम्। अन्तरिक्षम्। अव। नीचैः। अधस्तात्। अनायासेन। जग्मुः। गम्लृ–लिट्। प्रापुः। आपः। अ० १।५।१। जलानि ॥

    इस भाष्य को एडिट करें
    Top