अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 4
सूक्त - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - पुरोविराड्जगती
सूक्तम् - इन्द्रशौर्य सूक्त
आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑। श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥
स्वर सहित पद पाठआ । त्वा॒ । वि॒श॒न्तु॒ । सु॒तास॑: । इ॒न्द्र॒: । पृ॒णस्व॑ । कु॒क्षी इति॑ । वि॒ड्ढि । श॒क्र॒ । धि॒या । इ॒हि॒ । आ । न॒: । श्रु॒धि । हव॑म् । गिर॑: । मे॒ । जु॒ष॒स्व॒ । आ । इ॒न्द्र॒ । स्व॒युक्ऽभि॑: । मत्स्व॑ । इ॒ह । म॒हे । रणा॑य ॥५.४॥
स्वर रहित मन्त्र
आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः। श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥
स्वर रहित पद पाठआ । त्वा । विशन्तु । सुतास: । इन्द्र: । पृणस्व । कुक्षी इति । विड्ढि । शक्र । धिया । इहि । आ । न: । श्रुधि । हवम् । गिर: । मे । जुषस्व । आ । इन्द्र । स्वयुक्ऽभि: । मत्स्व । इह । महे । रणाय ॥५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–आ+विशन्तु। प्रविशन्तु। सुतासः। षुञ् अभिषवे–क्त। आज्जसेरसुक्। पा० ७।१।५०। अभिषुताः सोमाः। पृणस्व। म० २। तर्पय। कुक्षी। प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। इति कुष निष्कर्षे–क्सि। दक्षिणोत्तरकुक्षिद्वयम्। आत्मानमित्यर्थः। विड्ढि। विध विधाने=शासने तुदादिः। लोटि छान्दसः श विकरणस्य लुक्। हेर्ध्यादेशे ढत्वष्टुत्वजश्त्वानि। त्वं विध विधानं शासनं कुरु। शक्र। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति शक्लृ शक्तौ–रक्। शक्नोतीति। हे शक्तिमन्। हे समर्थ। धिया। ध्यै चिन्तने–क्विप्। सम्प्रसारणं च। धीः, कर्मनाम निघ० २।१। प्रज्ञानाम–निघ० ३।९। प्रज्ञया। बुद्ध्या। श्रुधि। श्रु श्रवणे। विकरणस्य लुक्। श्रुशृणुपृकृवृभ्यश्छन्दसि पा० ६।४।१०२। इति हेर्धिरादेशः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति सांहितिको दीर्घः। शृणु। हवम्। अ० १।१५।२। ह्वेञ् आह्वाने–अप्। आह्वानम्। अवाहनम्। गिरः। गॄ शब्दे–क्विप्। गृणाति=अर्चति। निघ० ३।१४। वाचः। वाक्यानि। जुषस्व। सेवस्व। स्वीकुरु। स्वयुग्भिः। स्व+युजिर् समाधौ, यद्वा०। युज संयमने–क्विप्। युज्यते समाधत्ते, यद्वा, योजयति नियमयतीति युक्। स्वयुक्तिभिः। आत्मीयैः समाधिमद्भिः संयोगवद्भिर्वा मित्रैः। मत्स्व। मदी हर्षे। छान्दसम् आत्मनेपदम्। हृष्टो भव। महे। मह पूजायां–क्विप्। महते। रणाय। रमणाय। आनन्दाय। यद्वा। युद्धजयाय ॥
इस भाष्य को एडिट करें