अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 1
सूक्त - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - निचृदुपरिष्टाद्बृहती
सूक्तम् - इन्द्रशौर्य सूक्त
इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्। पिबा॑ सु॒तस्य॑ म॒तेरि॒ह म॒धोश्च॑का॒नश्चारु॒र्मदा॑य ॥
स्वर सहित पद पाठइन्द्र॑ । जु॒षस्व॑ । प्र । व॒ह॒ । आ । या॒हि॒ । शू॒र॒ । हरि॑ऽभ्याम् । पिब॑ । सु॒तस्य॑ । म॒ते: । इ॒ह । मधो॑: । च॒का॒न: । चारु॑: । मदा॑य ॥५.१॥
स्वर रहित मन्त्र
इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम्। पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥
स्वर रहित पद पाठइन्द्र । जुषस्व । प्र । वह । आ । याहि । शूर । हरिऽभ्याम् । पिब । सुतस्य । मते: । इह । मधो: । चकान: । चारु: । मदाय ॥५.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–इन्द्र। अ० १।२।३। इदि परमैश्वर्ये–रन्। हे परमैश्वर्यवन् राजन् ! मनुष्य। जुषस्व। जुषी प्रीतिसेवनयोः–लोट्। प्रीयस्व। हृष्टो भव। प्रवह। प्रगच्छ। शूर। शुचिचिमीनां दीर्घश्च। उ० २।२५। इति शु गतौ–क्रन्। शवति वीर्य्यं प्राप्नोतीति। यद्वा, शूर विक्रमे उद्यमे–अच्। हे वीर ! हरिभ्याम्। हृपिषिरुहिवृति०। उ० ४।११९। इति हृञ् हरणे–इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। हरतीति हरिः सूर्यः, चन्द्रः, वायुः, इति कोपे। द्विवचनत्वात् सूर्यचन्द्राभ्याम् तयोरुपलक्षितदिनरात्रिहिताय। अथवा, वायुभ्याम् प्राणापानाभ्यां तयोरुपलक्षितजीवनहिताय। हरिभ्यां हरणसाधनाभ्यामहोरात्राभ्यां कृष्णशुक्लपक्षाभ्याम्–इति श्रीमद्दयानन्दभाष्ये, ऋ १।३५।३। सुतस्य। षुञ् अभिषवे, यद्वा, षु प्रसवैश्वर्ययोः–क्त। अभिषवस्य, सारस्य ऐश्वर्यस्य। मतेः। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति मन् बोधे–क्तिच्। मतयः, मेधाविनामसु–निघ० ३।१५। मेधाविनः पुरुषस्य। मधोः। मधुररसस्य। चकानः। चक तृप्तौ–शानच्। तृप्तिकामः। चारुः। दृसनिजनिचरिचटिरहिभ्यो ञुण्। उ० १।३। इति चर गतौ–ञुण्। शोभनस्वभावः, मनोज्ञः ॥
इस भाष्य को एडिट करें