अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 6
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
कृ॑त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑। अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ॥
स्वर सहित पद पाठकृ॒त्या॒ऽदूषि॑: । अ॒यम् । म॒णि: । अथो॒ इति॑ । अ॒रा॒ति॒ऽदूषि॑: । अथो॒ इति॑ । सह॑स्वान् । ज॒ङ्गि॒ड: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥४.६॥
स्वर रहित मन्त्र
कृत्यादूषिरयं मणिरथो अरातिदूषिः। अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत् ॥
स्वर रहित पद पाठकृत्याऽदूषि: । अयम् । मणि: । अथो इति । अरातिऽदूषि: । अथो इति । सहस्वान् । जङ्गिड: । प्र । न: । आयूंषि । तारिषत् ॥४.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६–कृत्यादूषिः। विभाषा कृवृषोः। पा० ३।१।१२०। इति कृञ् हिंसायाम्–क्यप् तुक् च, टाप् च। अच इः। उ० ४।१३९। दुष वैकृत्ये–ण्यन्तात् इ प्रत्ययः। कृत्यायाः। हिंसाया दूषको निवारकः। अथो। ओत्। पा० १।१।१५। इति प्रगृह्यत्वात् सन्धिनिषेधः। अपि च। अरातिदूषिः। अरातिः। अ० १।२।२। न+रा दाने–क्तिच्। अरातयोऽदानकर्माणो वादानप्रज्ञा वा–निरु० ३।११। दूषिः–इति गतम्। अदातॄणां कृपणानां शत्रूणां दूषको नाशकः। आयूंषि। अ० १।३०।३। जीवनानि। प्र+तारिषत्। प्र पूर्वस्तरतिर्वृद्ध्यर्थः। लेट्। सिब् बहुलं लेटि। पा० ३।१।३५। इति सिप्। सिपो णिद्वद्भावाद् वृद्धिः। लेटोऽडाटौ। पा० ३।४।९४। आडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। प्रवर्धयेत् ॥
इस भाष्य को एडिट करें