Loading...
अथर्ववेद > काण्ड 2 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमा अथवा जङ्गिडः छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु प्राप्ति सूक्त

    दी॑र्घायु॒त्वाय॑ बृहते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व। म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ॥

    स्वर सहित पद पाठ

    दी॒र्घा॒यु॒ऽत्वाय॑ । बृ॒ह॒ते । रणा॑य । अरि॑ष्यन्त: । दक्ष॑माणा: । सदा॑ । ए॒व । म॒णिम् । वि॒स्क॒न्ध॒ऽदूष॑णम् । ज॒ङ्गि॒डम् । बि॒भृ॒म॒: । व॒यम् ॥४.१॥


    स्वर रहित मन्त्र

    दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव। मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥

    स्वर रहित पद पाठ

    दीर्घायुऽत्वाय । बृहते । रणाय । अरिष्यन्त: । दक्षमाणा: । सदा । एव । मणिम् । विस्कन्धऽदूषणम् । जङ्गिडम् । बिभृम: । वयम् ॥४.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 1

    टिप्पणीः - १–दीर्घायुत्वाय। छन्दसीणः। उ० १।२। इति दीर्घ+इण् गतौ–उण्। ततो भावे त्वप्रत्ययः। चिरकालजीवनाय। रणाय। रमणाय, मकारलोपे यद्वा, संग्रामाय। अरिष्यन्तः। रिष हिंसायाम् शतृ, नञ्समासः। अहिंसन्तः। दक्षमाणाः। दक्ष वृद्धिशैघ्र्ययोः–शानच्। वर्धमानाः। मणिम्। सर्वधातुभ्य इन्। उ० ४।११८। इति मण शब्दे–इन्। मण्यते स्तूयते स मणिः। बहुमूल्यः पाषाणो वा रत्नम्। प्रशस्तम्। विष्कन्धदूषणम्। वि+स्कन्दिर् शोषणे गत्यां च–घञ्, धश्चान्तादेशः। दुष वैकृत्ये ण्यन्तात् करणे ल्युट्। दोषो णौ। पा० ६।४।९०। इति ऊत्वम्। विशेषेण शोषकस्य विघ्नस्य विकर्तारं निवारकम्। जङ्गिडम्। जमति भक्षयतीति जः। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति जम भक्षे–ड। गिरतीति गिरः। मेघर्तिभयेषु कृञः। पा० ३।२।४३। इति बाहुलकात्, गॄ निगरणे–खच्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। इति अजन्तस्य मुम्। रकारस्य उत्वम्। आत्मभक्षकस्य रोगस्य पापस्य वा निगरणशीलं भक्षकम् औषधं परमात्मानं वा। बिभृमः। डुभृञ् धारणपोषणयोः–श्लौ लट्। धारयामः ॥

    इस भाष्य को एडिट करें
    Top