अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
अ॒यं विष्क॑न्धं सहते॒ ऽयं बा॑ध॒ते अ॒त्त्रिणः॑। अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठअ॒यम् । विऽस्क॑न्धम् । स॒ह॒ते॒ । अ॒यम् । बा॒ध॒ते॒ । अ॒त्त्रिण॑: । अ॒यम् । न॒: । वि॒श्वऽभे॑षज: । ज॒ङ्गि॒ड: । पा॒तु॒ । अंह॑स: ॥४.३॥
स्वर रहित मन्त्र
अयं विष्कन्धं सहते ऽयं बाधते अत्त्रिणः। अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥
स्वर रहित पद पाठअयम् । विऽस्कन्धम् । सहते । अयम् । बाधते । अत्त्रिण: । अयम् । न: । विश्वऽभेषज: । जङ्गिड: । पातु । अंहस: ॥४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–विष्कन्धम्। म० १। विघ्नम्। सहते। षह अभिभवे। अभिभवति। बाधते। बाधृ विलोडने। निवारयति नाशयति। अत्त्रिणः। अ० १।७।३। अद भक्षणे–त्रिनि। अत्रीन्, भक्षकान् पुरुषान् रोगान् वा। विश्वभेषजः। सर्वेषां रोगादीनां जेता निवर्तकः। सर्वौषधः। अंहसः। अमेर्हुक् च। उ० ४।११३। इति अम रोगे, गतौ च–असुन् हुक् च। रोगात्। पापात् ॥ ०२।०४।०४
इस भाष्य को एडिट करें