Loading...
अथर्ववेद > काण्ड 20 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 109/ मन्त्र 1
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सूक्त-१०९

    स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्य:। या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

    स्वर सहित पद पाठ

    स्वा॒दो: । इ॒त्था । वि॒षु॒ऽवत॑: । मध्व॑: । पि॒ब॒न्ति॒ । गौ॒र्य: ॥ या: । इन्द्रे॑ण । स॒ऽयाव॑री: । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.१॥


    स्वर रहित मन्त्र

    स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्य:। या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥

    स्वर रहित पद पाठ

    स्वादो: । इत्था । विषुऽवत: । मध्व: । पिबन्ति । गौर्य: ॥ या: । इन्द्रेण । सऽयावरी: । वृष्णा । मदन्ति । शोभसे । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-१।८४।१०-१२, सामवेद-उ० ३।२। तृच १; म० १ साम-पू० ।३।१ ॥ १−(स्वादोः) स्वादयुक्तस्य (इत्था) अनेन प्रकारेण (विषुवतः) व्याप्तियुक्तस्य (मध्वः) मधुनः। ज्ञानस्य (पिबन्ति) पानं कुर्वन्ति (गौर्यः) गुरी उद्यमे-घञ्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। गौरी रोचतेर्ज्वलतिकर्मणोऽयमपीतरो गौरो वर्ण एतस्मादेव प्रशस्यो भवति-निरु० ११।३९। उद्यमयुक्ताः प्रजाः (याः) (इन्द्रेण) परमैश्वर्यवता सभापतिना (सयावरीः) आतो मनिन्०। पा० ३।२।७४। या प्रापणे-वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। सहगच्छन्त्यः (वृष्णा) बलवता (मदन्ति) हृष्यन्ति (शोभसे) शोभार्थम् (वस्वीः) शॄस्वृस्निहित्रप्यसिवसि०। उ० १।१०। वस निवासे-उ प्रत्ययः। वोतो गुणवचनात्। पा० ४।१।४४। इति ङीष्। वासकारिण्यः प्रजाः (अनु) अनुलक्ष्य (स्वराज्यम्) स्वकीयराष्ट्रम् ॥

    इस भाष्य को एडिट करें
    Top