Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 109/ मन्त्र 3
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः। व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
स्वर सहित पद पाठता: । अ॒स्य॒ । नम॑सा । सह॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तस: ॥ व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.३॥
स्वर रहित मन्त्र
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः। व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
स्वर रहित पद पाठता: । अस्य । नमसा । सह । सपर्यन्ति । प्रऽचेतस: ॥ व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(ताः) प्रजाः (अस्य) सभापतेः (नमसा) सत्कारेण (सहः) बलम् (सपर्यन्ति) सेवन्ते (प्रचेतसः) प्रकृष्टज्ञानवत्यः (व्रतानि) नियमान् (अस्य) (सश्चिरे) सश्च गतौ। गच्छन्ति। प्राप्नुवन्ति (पुरूणि) बहूनि (पूर्वचित्तये) चिती संज्ञाने-क्तिन्। पूर्वेषां ज्ञानप्राप्तये। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें