अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 3
न॒हि स्थूर्यृ॑तु॒था या॒तम॑स्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑। ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥
स्वर सहित पद पाठन॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रव॑: । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ॥ ग॒व्यन्त॑: । इन्द्र॑म् । स॒ख्याय॑ । विप्रा॑: । अ॒श्व॒ऽयन्त॑: । वृष॑णम् । वा॒जय॑न्त: ॥१२५.३॥
स्वर रहित मन्त्र
नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु। गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
स्वर रहित पद पाठनहि । स्थूरि । ऋतुऽथा । यातम् । अस्ति । न । उत । श्रव: । विविदे । सम्ऽगमेषु ॥ गव्यन्त: । इन्द्रम् । सख्याय । विप्रा: । अश्वऽयन्त: । वृषणम् । वाजयन्त: ॥१२५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(नहि) न कदापि (स्थूरि) स्थः किच्च। उ० ।४। ष्ठा गतिनिवृत्तौ-ऊरन्। गतिशून्यं प्रवृत्तिरहितं कर्म (ऋतुथा) ऋतौ। निश्चितसमये (यातम्) प्राप्तं समाप्तम् (अस्ति) (न) निषेधे (उत) अपि (श्रवः) यशः (विविदे) लडर्थे लिट्। लभ्यते प्राप्यते (संगमेषु) समाजेषु। संग्रामेषु (गव्यन्तः) भूमिमिच्छन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (सख्याय) सखिकर्मणे (विप्राः) मेधाविनः (अश्वायन्तः) तुरगानिच्छन्तः (वृषणम्) बलवन्तम् (वाजयन्तः) वेगवन्तं कुर्वन्तः ॥
इस भाष्य को एडिट करें