Loading...
अथर्ववेद > काण्ड 20 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 5
    सूक्त - सुर्कीतिः देवता - अश्विनीकुमारौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२५

    पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥

    स्वर सहित पद पाठ

    पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथ॑ । काव्यै॑: । दं॒सना॑भि: ॥ यत् । सु॒ऽराम॑म् । वि । अपि॑ब: । शची॑भि: । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥१२५.५॥


    स्वर रहित मन्त्र

    पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः। यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥

    स्वर रहित पद पाठ

    पुत्रम्ऽइव । पितरौ । अश्विना । उभा । इन्द्र । आवथ । काव्यै: । दंसनाभि: ॥ यत् । सुऽरामम् । वि । अपिब: । शचीभि: । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥१२५.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 5

    टिप्पणीः - −(पुत्रम्) सन्तानम् (इव) यथा (पितरौ) जननीजनकौ (अश्विना) कर्मसु व्यापकौ सभासेनेशौ (उभा) द्वौ (इन्द्र) परमैश्वर्यवन् राजन् (आवथुः) राज्यं रक्षितवन्तौ युवाम् (काव्यैः) कविभिर्मेधाविभिर्निर्मितैर्व्यवहारैः (दंसनाभिः) अथ० २०।७४।२। दर्शनीयाभिः क्रियाभिः (यत्) यतः (सुरामम्) म० ४। शोभनानन्दयितारम् (वि) विविधम् (अपिबः) पीतवानसि (शचीभिः) प्रज्ञाभिः (सरस्वती) विज्ञानयुक्ता विद्या (त्वा) (मघवन्) महाधनिन् (अभिष्णक्) भिष्णज् उपसेवायां कण्ड्वादिः, लङ्, यको लुक् छान्दसः। उपसेवताम् ॥

    इस भाष्य को एडिट करें
    Top