Loading...
अथर्ववेद > काण्ड 20 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 1
    सूक्त - वामदेवः देवता - इन्द्राबृहस्पती छन्दः - जगती सूक्तम् - सूक्त-१३

    इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू। आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒णऽव॒सू इति॑ वृषण्ऽवसू ॥ आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑व: । सु॒ऽआ॒भुव॑: । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१३.१॥


    स्वर रहित मन्त्र

    इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू। आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥

    स्वर रहित पद पाठ

    इन्द्र: । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषणऽवसू इति वृषण्ऽवसू ॥ आ । वाम् । विशन्तु । इन्दव: । सुऽआभुव: । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१३.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 1

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-४।०।१० ॥ १−(इन्द्रः) हे परमैश्वर्यवन् राजन् (च) (सोमम्) सदोषधिरसम् (पिबतम्) (बृहस्पते) हे बृहत्या वेदवाण्या रक्षक विद्वन् (अस्मिन्) (यज्ञे) पूजनीये राज्यपालनव्यवहारे (मन्दसानौ) अ० १४।२।६। मदि आमोदस्तुतिदीप्त्यादिषु-असानच् आमोदयितारौ (वृषण्वसू) यौ वृष्णो बलवतः वीरान् वासयतस्तौ (वाम्) युवाम् (आविशन्तु) प्रविशन्तु। प्राप्नुवन्तु (इन्दवः) ऐश्वर्याणि (स्वाभुवः) सुष्ठु सर्वतो भवन्तः (अस्मे) अस्मभ्यम् (रयिम्) धनम् (सर्ववीरम्) सर्वे वीरा यस्मात्तम् (नि) नियमेन (यच्छतम्) दत्तम् ॥

    इस भाष्य को एडिट करें
    Top