Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 4
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑। पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
स्वर सहित पद पाठआ । ए॒भि॒: । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वा॒ङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभव॑: । हि । अश्वा॑: ॥ पत्नी॑ऽवत: । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥१३.४॥
स्वर रहित मन्त्र
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
स्वर रहित पद पाठआ । एभि: । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभव: । हि । अश्वा: ॥ पत्नीऽवत: । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥१३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है-३।६।९ ॥ इति प्रथमोऽनुवाकः ॥ ४−(आ याहि) आगच्छ (एभिः) अश्वैः (अग्ने) हे तेजस्विन् विद्वन् (सरथम्) समानस्यच्छन्दस्यमूर्द्धप्रभृत्युदर्केषु। पा० ६।३।८४। समानस्य सभावः। समानाः सदृशा रथा यस्मिंस्तं मार्गम् (अर्वाङ्) अभिमुखः (नानारथम्) बहुविधा रथा यस्मिंस्तं मार्गम् (वा) समुच्चये (विभवः) प्रभवः। प्रबलाः (हि) यतः (अश्वाः) तुरङ्गाः (पत्नीवतः) पालनशक्तिभिः सूक्ष्मावस्थाभिर्युक्तान् (त्रिंशतम्) (त्रीन्) (च) (देवान्) अ० ६।१३९।१। अष्टवस्वादीन् दिव्यपदार्थान् (अनुष्वधम्) स्वधेत्यन्ननाम-निघ० २।७। स्वधाम् अन्नम् अनुलक्ष्य (आ) यथावत् (वह) प्राप्नुहि (मादयस्व) आनन्दय सर्वान् ॥
इस भाष्य को एडिट करें