Loading...
अथर्ववेद > काण्ड 20 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 7
    सूक्त - अत्रिः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२

    ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑। यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्य॑न्दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥

    स्वर सहित पद पाठ

    ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भ: । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ॥ यु॒क्त्वा । हर‍ि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्यं॑दिने । सव॑ने । म॒त्स॒त् । इन्द्र॑: ॥१२.७॥


    स्वर रहित मन्त्र

    ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा। युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यन्दिने सवने मत्सदिन्द्रः ॥

    स्वर रहित पद पाठ

    ऋजीषी । वज्री । वृषभ: । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ॥ युक्त्वा । हर‍िऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यंदिने । सवने । मत्सत् । इन्द्र: ॥१२.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 7

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-।४०।४ ॥ ७−(ऋजीषी) अर्जेर्ऋज च। उ० ४।२८। अर्ज अर्जने-ईषन्, कित्, ऋजादेशश्च। ऋजीषं धनमस्यास्तीति-इति। महाधनी (वज्री) शस्त्रास्त्रभृत् (वृषभः) बलिष्ठः (तुराषाट्) तुर हिंसायाम्-क+षह अभिभवे-ण्वि, अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। तुराणां हिसकशत्रूणामभिभविता (शुष्मी) शुष्मं बलिष्ठं सैन्यं विद्यते यस्य सः (राजा) शासकः (वृत्रहा) शत्रुहन्ता (सोमपावा) श्रेष्ठौषधिरसस्य पानकर्ता (युक्त्वा) योजयित्वा (हरिभ्याम्) अश्वाभ्याम् (उप यासत्) आगच्छेत् (अर्वाङ्) अभिमुखः (माध्यन्दिने) मध्याह्ने (सवने) यज्ञमध्ये (मत्सत्) आनन्देत् (इन्द्रः) महाप्रतापी सेनापतिः ॥

    इस भाष्य को एडिट करें
    Top