अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 4
आप॑श्चित्पिप्यु स्त॒र्यो॒ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र। या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
स्वर सहित पद पाठआप॑: । चि॒त् । पि॒प्यु॒: । स्त॒र्य॑: । न । गाव॑: । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तार॑: । ते॒ । इ॒न्द्र॒ ॥ या॒हि । वा॒यु: । न । नि॒ऽयुत॑: । न॒: । अच्छ॑ । त्वम् । हि । धी॒भि: । दय॑से । वि । वाजा॑न् ॥१२.४॥
स्वर रहित मन्त्र
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र। याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥
स्वर रहित पद पाठआप: । चित् । पिप्यु: । स्तर्य: । न । गाव: । नक्षन् । ऋतम् । जरितार: । ते । इन्द्र ॥ याहि । वायु: । न । निऽयुत: । न: । अच्छ । त्वम् । हि । धीभि: । दयसे । वि । वाजान् ॥१२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र यजुर्वेद में भी है-३३।१८ ॥ ४−(आपः) जलानि (चित्) उपमार्थे-निरु० १।४। (पिप्युः) ओप्यायी वृद्धौ-लिट्। अभिवृद्धा बभूवुः (स्तर्यः) अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१८। स्तृञ् आच्छादने-ईप्रत्ययः। विस्तारशीलाः (न) इव-निरु० १।४। (गावः) किरणाः (नक्षन्) णक्ष गतौ-लङ्, अडभावः। प्राप्तवन्तः (ऋतम्) सत्यम् (जरितारः) स्तोतारः (ते) तव (इन्द्रः) महाप्रतापिन् सेनापते (याहि) प्राप्नुहि (वायुः) पवनः (न) इव (नियुतः) नि+यु मिश्रणामिश्रणयोः-क्विप्। नियुतो वायोरादिष्टोपयोजनानि-निघ० १।१। वेगादिगुणान् (नः) अस्मान् (अच्छ) सुष्ठु (त्वम्) (हि) यतः (धीभिः) प्रज्ञाभिः कर्मभिर्वा (दयसे) दय दानगतिरक्षणहिंसादानेषु। दयां करोषि (वि) विविधम्, (वाजान्) विज्ञानवतः ॥
इस भाष्य को एडिट करें