Loading...
अथर्ववेद > काण्ड 20 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२

    ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे। एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥

    स्वर सहित पद पाठ

    ते । त्वा॒ । मदा॑: । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ॥ एक॑: । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥१२.५॥


    स्वर रहित मन्त्र

    ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे। एको देवत्रा दयसे हि मर्तानस्मिन्छूर सवने मादयस्व ॥

    स्वर रहित पद पाठ

    ते । त्वा । मदा: । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ॥ एक: । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥१२.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 5

    टिप्पणीः - −(ते) प्रसिद्धाः (त्वा) त्वाम् (मदाः) आनन्दयुक्ताः सुभटाः-दयानन्दभाष्ये, ऋ० ७।२३। (इन्द्रः) (मादयन्तु) हर्षयन्तु (शुष्मिणम्) बलिष्ठम् (तुविराधसम्) बहुधनयुक्तम् (जरित्रे) स्तोत्रे (एकः) अद्वितीयः (देवत्रा) विद्वत्सु (दयसे) म० ४। दयां करोषि (हि) एव (मर्तान्) मनुष्यान् (अस्मिन्) वर्तमाने (शूर) निर्भय (सवने) प्रेरणे (मादयस्व) आनन्दयस्व सर्वानिति शेषः ॥

    इस भाष्य को एडिट करें
    Top