Loading...
अथर्ववेद > काण्ड 20 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 6
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२

    ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः। स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स्वर सहित पद पाठ

    ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठास: । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कै: ॥ स: । न॒: । स्तु॒त: । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । यू॒यम् ॥ पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१२.६॥


    स्वर रहित मन्त्र

    एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥

    स्वर रहित पद पाठ

    एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठास: । अभि । अर्चन्ति । अर्कै: ॥ स: । न: । स्तुत: । वीरऽवत् । धातु । गोऽमत् । यूयम् ॥ पात । स्वस्तिऽभि: । सदा । न: ॥१२.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 6

    टिप्पणीः - यह मन्त्र यजुर्वेद में भी है-२०।४। और चौथा पाद आगे है-अथ० २०।१७।१२; ३७।११; ८७।७ ॥ ६−(एव) एवम् (इत्) अपि (इन्द्रम्) महाप्रतापिनं सेनापतिम् (वृषणम्) बलवन्तम् (वज्रबाहुम्) शस्त्रास्त्रपाणिम् (वसिष्ठासः) वसु-इष्ठन्, असुक्। अतिशयेन वसवः श्रेष्ठविद्वांसः (अभि) सर्वतः (अर्चन्ति) सत्कुर्वन्ति (अर्कैः) सुविचारैः (सः) (नः) अस्मान् (स्तुतः) प्रशंसितः (वीरवत्) वीरैर्युक्तम् (धातु) दधातु (गोमत्) प्रशस्तधेनुभिर्युक्तं राज्यम् (यूयम्) (पात) रक्षत (स्वस्तिभिः) सुखैः (सदा) (नः) अस्मान् ॥

    इस भाष्य को एडिट करें
    Top