अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 2
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
स्वर सहित पद पाठअया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥
स्वर रहित मन्त्र
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि। नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
स्वर रहित पद पाठअयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अयामि) यमु उपरमे कर्मणि लुङ्। उद्यतः। उच्चैर्गतः (घोषः) शब्दः (इन्द्रः) हे महाप्रतापिन् वीर (देवजामिः) वसिवपियजि०। उ० ४।१२। जमु अदने गतौ च-इञ्। जमतिर्गतिकर्मा-निघ० २।१४। यो देवान् विदुषः पुरुषान् जमति प्राप्नोति सः (इरज्यन्त) लटि रूपम्। इरज्यतिः परिचरणकर्मा-निघ० ३।। इरज्यन्ति। सेवन्ते (यत्) यं घोषम् (शुरुधः) शु गतौ-डु+रुधिर् आवरणे-क्विप्। शवतिर्गतिकर्मा-निघ० २।१४, परिचरणकर्मा-निघ० ३।। आशु इति च शु इति च क्षिप्रनामनी भवतः-निरु० ६।१। शीघ्ररोधनशीलाः (विवाचि) विवाक् संग्रामनाम-निघ० २।१७। विविधवाणीयुक्तं व्यवहारे संग्रामे वा (नहि) न कोऽपि (स्वम्) स्वकीयम् (आयुः) जीवनकालम् (चिकिते) कित ज्ञाने-लिट्। ज्ञातवान् (जनेषु) मनुष्येषु (तानि) प्रसिद्धानि (इत्) एव (अंहांसि) पापानि (अति) अतीत्य उल्लङ्घ्य (पर्षि) पॄ पालनपूरणयोः-लेट्। पालय (अस्मान्) ॥
इस भाष्य को एडिट करें