अथर्ववेद - काण्ड 20/ सूक्त 134/ मन्त्र 6
सूक्त -
देवता - प्रजापतिः
छन्दः - निचृत्साम्नी पङ्क्तिः
सूक्तम् - कुन्ताप सूक्त
इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गक्ष्लिली॒ पुच्छिली॑यते ॥
स्वर सहित पद पाठइ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक्ऽअक्ष्लि॑ली । पुच्छिली॑यते ॥१३४.६॥
स्वर रहित मन्त्र
इहेत्थ प्रागपागुदगधरागक्ष्लिली पुच्छिलीयते ॥
स्वर रहित पद पाठइह । इत्थ । प्राक् । अपाक् । उदक् । अधराक्ऽअक्ष्लिली । पुच्छिलीयते ॥१३४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 134; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अक्ष्लिली) अक्षू व्याप्तौ−क्विप्। सलिकल्यनि०। उ० १।४। ला आदाने, इलच् स च डित्, ङीप्। अक्षः अक्षस्य व्यवहारस्य ग्राहिका बुद्धिः (पुच्छिलीयते) पुच्छ प्रसादे−इति शब्दकल्पद्रुमः। सलिकल्यनि०। उ० १।४। इति इलच् ङीप्। भृशादिभ्यो भुव्यच्वेर्लोपश्च। हलः। पा० ३।१।१२। पुच्छिली−क्यङ्, भवत्यर्थे बाहुलकात्। प्रसन्ना भवति। अन्यद् गतम्−म० १ ॥
इस भाष्य को एडिट करें