अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 1
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - स्वराडार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
भुगि॑त्य॒भिग॑तः॒ शलि॑त्य॒पक्रा॑न्तः॒ फलि॑त्य॒भिष्ठि॑तः। दु॒न्दुभि॑माहनना॒भ्यां जरितरोथा॑मो दै॒व ॥
स्वर सहित पद पाठभुक् । इ॑ति । अ॒भिऽग॑तु॒: । शल् । इ॑ति । अ॒पऽक्रा॑न्त॒: । फल् । इ॑ति । अ॒भिऽस्थि॑त: ॥ दुन्दुभि॑म् । आहनना॒भ्याम् । जरित: । आ । उथाम॑: । दै॒व ॥१३५.१॥
स्वर रहित मन्त्र
भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः। दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥
स्वर रहित पद पाठभुक् । इति । अभिऽगतु: । शल् । इति । अपऽक्रान्त: । फल् । इति । अभिऽस्थित: ॥ दुन्दुभिम् । आहननाभ्याम् । जरित: । आ । उथाम: । दैव ॥१३५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(भुक्) भुज पालनाभ्यवहारयोः−क्विप्। पालकः परमात्मा (इति) एवं वर्तते (अभिगतः) आभिमुख्येन प्राप्तः (शल्) शल गतौ−क्विप्। शीघ्रगामी (इति) (अपक्रान्तः) अप आनन्दे+क्रमु पादविक्षेपे−क्त। सुखेन क्रमणशीलः (फल्) फल निष्पत्तौ−क्विप्। सिद्धिकर्ता परमेश्वरः (इति) (अभिष्ठितः) सर्वतः स्थितः (दुन्दुभिम्) बृहड्ढक्काम् (आहननाभ्याम्) ताडनस्य वादनस्य साधनाभ्याम् (जरितः) जरिता स्तोतृनाम−निघ० ३।१६। हे स्तोतः (आ) समन्तात् (उथामः) उत्+ष्ठा−लट् अन्तर्गतण्यर्थः। उत्थामः। उत्थापयामः। उच्चैर्वादयामः (दैव) देव−अण्। देवः परमात्मा देवता यस्य, तत्संबुद्धौ। हे परमेश्वरोपासक विद्वन् ॥
इस भाष्य को एडिट करें