Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 9
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - विराडार्षी पङ्क्तिः सूक्तम् - कुन्ताप सूक्त

    आदि॑त्या रु॒द्रा वस॑व॒स्त्वेनु॑ त इ॒दं राधः॒ प्रति॑ गृभ्णीह्यङ्गिरः। इ॒दं राधो॑ वि॒भु प्रभु॑ इ॒दं राधो॑ बृ॒हत्पृथु॑ ॥

    स्वर सहित पद पाठ

    आदि॑त्या: । रु॒द्रा: । वस॑व॒ । त्वे । अनु॑ । ते । इ॒दम् । राध॒: । प्रति॑ । गृभ्णीहि ।अङ्गिर: ॥ इ॒दम् । राध॑: । वि॒भु । प्रभु॑ । इ॒दम् । राध॑: । बृ॒हत् । पृथु॑ ॥१३५.९॥


    स्वर रहित मन्त्र

    आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः। इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥

    स्वर रहित पद पाठ

    आदित्या: । रुद्रा: । वसव । त्वे । अनु । ते । इदम् । राध: । प्रति । गृभ्णीहि ।अङ्गिर: ॥ इदम् । राध: । विभु । प्रभु । इदम् । राध: । बृहत् । पृथु ॥१३५.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 9

    टिप्पणीः - इस मन्त्र का मिलान करो-अथ० ११।६।१३; और १९।११।४ ॥ ९−(आदित्याः) अदिति−ण्य। अखण्डब्रह्मचारिणः (रुद्राः) रुतो ज्ञानस्य रातारो दातारः (वसवः) श्रेष्ठपुरुषाः (त्वे) विभक्तेः शे। त्वाम् (अनु) अनुसृत्य (ते) प्रसिद्धाः (इदम्) (राधः) धनम् (प्रति) प्रत्यक्षेण (गृभ्णीहि) गृहाण (अङ्गिरः) विज्ञानिन् (इदम्) (राधः) (विभु) व्यापकम् (प्रभु) समर्थम् (इदम्) (राधः) (बृहत्) बहु (पृथु) विस्तृतम् ॥

    इस भाष्य को एडिट करें
    Top