अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 10
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्। युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत ॥
स्वर सहित पद पाठदेवा॑: । दद॒तु । आसु॑र॒म् । तत् । व॑: । अस्तु॒ । सुचे॑तनम् ॥ युष्मा॑न् । अस्तु॒ । दिवे॑दिवे । प्र॒ति । एव॑ । गृभायत ॥१३५.१०॥
स्वर रहित मन्त्र
देवा ददत्वासुरं तद्वो अस्तु सुचेतनम्। युष्माँ अस्तु दिवेदिवे प्रत्येव गृभायत ॥
स्वर रहित पद पाठदेवा: । ददतु । आसुरम् । तत् । व: । अस्तु । सुचेतनम् ॥ युष्मान् । अस्तु । दिवेदिवे । प्रति । एव । गृभायत ॥१३५.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(देवाः) विद्वांसः (ददतु) प्रयच्छन्तु (आसुरम्) असुर-अण् भावे। असुरत्वं प्रज्ञावत्त्वं ज्ञानवत्त्वं वापि वासुरिति प्रज्ञानामास्यत्यनर्थानस्ताश्चास्यामर्थाः-निरु० १०।३४। बुद्धिमत्त्वम् (तत्) आसुरम् (वः) युष्मभ्यम् (अस्तु) (सुचेतनम्) प्रशस्तं ज्ञानम् (युष्मान्) युष्मभ्यम् (अस्तु) (दिवेदिवे) दिने-दिने (प्रति) प्रत्यक्षेण (एव) निश्चयेन (गृभायत) अ० ८।४।१८। गृह्णीत ॥
इस भाष्य को एडिट करें