अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 6
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - स्वराडार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
आदि॑त्या ह जरित॒रङ्गि॑रोभ्यो॒ दक्षि॑णाम॒नय॑न्। तां ह॑ जरितः॒ प्रत्या॑यं॒स्तामु ह॑ जरितः॒ प्रत्या॑यन् ॥
स्वर सहित पद पाठआदि॑त्या: । ह । जरित॒: । अङ्गिर:ऽभ्य॒: । दक्षि॑णाम् । अनय॑न् ॥ ताम् । ह॑ । जरित॒: । प्रति॑ । आ॑य॒न् ॥ ताम् । ऊं॒ इति॑ । ह॑ । जरित॒: । प्रति॑ । आ॑यन् ॥१३५.६॥
स्वर रहित मन्त्र
आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्। तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥
स्वर रहित पद पाठआदित्या: । ह । जरित: । अङ्गिर:ऽभ्य: । दक्षिणाम् । अनयन् ॥ ताम् । ह । जरित: । प्रति । आयन् ॥ ताम् । ऊं इति । ह । जरित: । प्रति । आयन् ॥१३५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(आदित्याः) अथ० १९।११।४। अदिति−ण्य। अखण्डब्रह्मचारिणः (ह) एव (जरितः) हे स्तोतः (अङ्गिरोभ्यः) अ० २०।२८।२। विज्ञानिभ्यः (दक्षिणाम्) अथ० ।७।१। दानम्, प्रतिष्ठाम् (अनयन्) प्रापितवन्तः (ताम्) दक्षिणाम् (ह) (जरितः) (प्रति) प्रत्यक्षम् (आयन्) अथ० २०।६१।२। अगच्छम्। प्राप्नुवन् (उ) अवश्यम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें