Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 7
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - भुरिगार्षी त्रिष्टुप् सूक्तम् - कुन्ताप सूक्त

    तां ह॑ जरितर्नः॒ प्रत्य॑गृभ्णं॒स्तामु ह॑ जरितर्नः॒ प्रत्य॑गृभ्णः। अहा॑नेतरसं न॒ वि चे॒तना॑नि य॒ज्ञानेत॑रसं न॒ पुरो॒गवा॑मः ॥

    स्वर सहित पद पाठ

    ताम् । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण॒न् । ताम् । ऊं॒ इति॑ । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण: ॥ अहा॑नेतरसम् । न॒ । वि । चे॒तना॑नि । य॒ज्ञानेत॑रसम् । न॒ । पुरो॒गवा॑म: ॥१३५.७॥


    स्वर रहित मन्त्र

    तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः। अहानेतरसं न वि चेतनानि यज्ञानेतरसं न पुरोगवामः ॥

    स्वर रहित पद पाठ

    ताम् । ह । जरित: । न: । प्रति । अगृभ्णन् । ताम् । ऊं इति । ह । जरित: । न: । प्रति । अगृभ्ण: ॥ अहानेतरसम् । न । वि । चेतनानि । यज्ञानेतरसम् । न । पुरोगवाम: ॥१३५.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 7

    टिप्पणीः - ७−(ताम्) दक्षिणाम्−म० ६। (ह) एव (जरितः) हे स्तोतः (नः) अस्मभ्यम् (प्रति) प्रत्यक्षम् (अगृभ्णन्) अगृह्णन्। गृहीतवन्तः (ताम्) (उ) निश्चयेन (ह) (जरितः) (नः) (प्रति) प्रत्यक्षम् (अगृभ्णः) अगृह्णः। गृहीतवानसि (अहानेतरसम्) सम्यानच् स्तुवः। उ० २।८९। अह व्याप्तौ−आनच्। तरो बलनाम−निघ० २।९। ततः अर्शआद्यच्। अहाने व्याप्तौ तरसं बलयुक्तं व्यवहारम् (न) सम्प्रति−निरु० ७।३१। (वि) विविधानि (चेतनानि) चेतनाः। ज्ञानानि (यज्ञानेतरसम्) सम्यानच् स्तुवः। उ० २।८९। यज देवपूजासंगतिकरणदानेषु आनच्, नकारश्छान्दसः। यज्ञे बलयुक्तं व्यवहारम् (न) सम्प्रति (पुरोगवामः) गु गतौ−लट्, परस्मैपदम्। गवते गतिकर्मा−निघ० २।१४। अग्रे भूत्वा गच्छामः प्राप्नुमः ॥

    इस भाष्य को एडिट करें
    Top