अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 3
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे। इन्द्रा॑भिमाति॒षाह्ये॑ ॥
स्वर सहित पद पाठनामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भि: । गी॒ऽभि: । ई॒म॒हे॒ ॥ इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥१९.३॥
स्वर रहित मन्त्र
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे। इन्द्राभिमातिषाह्ये ॥
स्वर रहित पद पाठनामानि । ते । शतक्रतो इति शतऽक्रतो । विश्वाभि: । गीऽभि: । ईमहे ॥ इन्द्र । अभिमातिऽसह्ये ॥१९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(नामानि) नरपतिभूपालादिसंज्ञाः (ते) तव (शतक्रतो) बहुकर्मन्। बहुप्रज्ञ (विश्वाभिः) सर्वाभिः (गीर्भिः) स्तुतयो गिरो गृणातेः-निरु० १।१०। स्तुतिभिः (ईमहे) याचामहे (इन्द्र) हे परमैश्वर्यवन् राजन् (अभिमातिषाह्ये) अभिमातीनाम्, अभिमानिनां शत्रूणां सह्ये सहने पराजये ॥
इस भाष्य को एडिट करें