अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 7
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च। इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥
स्वर सहित पद पाठद्यु॒म्नेषु॑ । पृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु॑ । अव॑:ऽसु । च॒ ॥ इन्द्र॑ । साक्ष्व॑ । अ॒भिऽमा॑तिषु ॥१९.७॥
स्वर रहित मन्त्र
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च। इन्द्र साक्ष्वाभिमातिषु ॥
स्वर रहित पद पाठद्युम्नेषु । पृतनाज्ये । पृत्सुतूर्षु । अव:ऽसु । च ॥ इन्द्र । साक्ष्व । अभिऽमातिषु ॥१९.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(द्युम्नेषु) द्योतमानेषु धनेषु (पृतनाज्ये) अघ्न्यादयश्च। उ० ४।११२। पृतना+अज गतिक्षेपणयोः-यक्प्रत्ययः। पृतनानां सेनानाम्, अजन गमनं यत्र। रणक्षेत्रे (पृत्सुतूर्षु) तुर हिंसायाम्-क्विप्। मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः। वा० पा० ६।१।६३। इति पृतना शब्दस्य पृत्, अलुक् समासः। पृत्सु पृतनासु सेनासु तूर्षु हिंसकेषु शूरेषु (श्रवःसु) कीर्तिषु (च) (इन्द्र) हे परमैश्वर्यवन् राजन् (साक्ष्व) षह मर्षणे-लोट्, शपो लुक्, ढत्त्वकुत्वे, छान्दसो दीर्घः। सहस्व। अभिभव। विजय (अभिमातिषु) अभिमातिषु। शत्रुषु ॥
इस भाष्य को एडिट करें