Loading...
अथर्ववेद > काण्ड 20 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 2/ मन्त्र 4
    सूक्त - गृत्समदो मेधातिथिर्वा देवता - द्रविणोदाः छन्दः - एकवसाना साम्नी त्रिष्टुप् सूक्तम् - सूक्त-२

    दे॒वो द्र॑विणो॒दाः पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥

    स्वर सहित पद पाठ

    दे॒व: । द्र॒वि॒ण॒:ऽदा: । पो॒त्रात् । सु॒ऽस्तुभ॑: । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒ब॒तु॒ ॥२.४॥


    स्वर रहित मन्त्र

    देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥

    स्वर रहित पद पाठ

    देव: । द्रविण:ऽदा: । पोत्रात् । सुऽस्तुभ: । सुऽअर्कात् । ऋतुना । सोमम् । पिबतु ॥२.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 2; मन्त्र » 4

    टिप्पणीः - ४−(देवः) विद्वान् (द्रविणोदाः) द्रविणशब्दस्य सकार उपजनः, ददातेरसुनि बाहुलकादाकारलोपः। द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदाः-निरु० ८।१। धनस्य बलस्य वा दाता। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top