अथर्ववेद - काण्ड 20/ सूक्त 22/ मन्त्र 6
इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑। यत्सी॑मुपह्व॒रे वि॒दत् ॥
स्वर सहित पद पाठइन्द्रा॑य । गाव॑: । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ । यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥२२.६॥
स्वर रहित मन्त्र
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् ॥
स्वर रहित पद पाठइन्द्राय । गाव: । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उपऽह्वरे । विदत् ॥२२.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 22; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इन्द्राय) परमैश्वर्यवते राज्ञे (गावः) वेदवाण्यः (आशिरम्) अपस्पृधेथामानृचु०। पा० ६।१।३६। आङ्+श्रिञ् सेवायां श्रीञ् पाके वा-क्विप्, धातोः शिर इत्यादेशः। यद्वा। अशेर्नित्। उ० १।२। आङ्+अश भोजने अशू व्याप्तौ वा-किरन् नित्। आशीराश्रयणाद् वाश्रपणाद् वा, अथेयमितराशीराशास्तेः-निरु० ६।८। आश्रययोग्यं परिपाकयोग्यं वा दुग्धदधिघृतादिपदार्थम् (दुदुह्रे) दुह प्रपूरणे लिटि रुट्। दुदुहिरे। पूरितवत्यः (वज्रिणे) वज्रधारिणे (मधु) मधुविद्याम्। यथार्थज्ञानम् (यत्) यदा (सीम्) अवितॄस्तृ० तु० ३।१९। षिञ् बन्धने-ईप्रत्ययः। सीमिति परिग्रहार्थीयो वा पदपूरणो वा सर्वत इति वा-निरु० १।७। सर्वतः (उपह्वरे) उप+ह्वृ कौटिल्ये-अप्। निकटे। युद्धे (विदत्) विद्लृ लाभे-लुङ्। प्राप्तवान् स इन्द्रस्ता वाणीः ॥
इस भाष्य को एडिट करें