Loading...
अथर्ववेद > काण्ड 20 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 1
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२३

    आ तू न॑ इन्द्र म॒द्र्यग्घुवा॒नः सोम॑पीतये। हरि॑भ्यां याह्यद्रिवः ॥

    स्वर सहित पद पाठ

    आ । तु । न॒: । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒न: । सोम॑ऽपीतये ॥ हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽव॒: ॥२३.१॥


    स्वर रहित मन्त्र

    आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये। हरिभ्यां याह्यद्रिवः ॥

    स्वर रहित पद पाठ

    आ । तु । न: । इन्द्र । मद्र्यक् । हुवान: । सोमऽपीतये ॥ हरिऽभ्याम् । याहि । अद्रिऽव: ॥२३.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 1

    टिप्पणीः - यह सूक्त ऋग्वेद में है-३।४१।१-९ ॥ १−(आ याहि) आगच्छ (तु) शीघ्रम् (नः) अस्मान् (इन्द्र) हे परमैश्वर्यवन् राजन् (मद्र्यक्) ऋत्विग्दधृक्०। पा० ३।२।९। अस्मत्+अञ्चु गतिपूजनयोः-क्विन्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। अस्मच्छब्दस्यैकवचने मपर्यन्तस्य म इत्यादेशः। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा० ६।३।९२। इति टेः अद्रि इत्यादेशः। माम् अञ्चति प्राप्नोति यः सः (हुवानः) हूयमानः (सोमपीतये) अ० १७।१।१। सोमानां पदार्थानां पीती रक्षणं यस्मिन् व्यवहारे तस्मिन्-दयानन्दभाष्य ऋक्० १।२१।३। (हरिभ्याम्) अश्वसदृशाभ्यां व्यापकाभ्यां बलपराक्रमाभ्याम् (अद्रिवः) अ० २०।२०।४। हे वज्रिन् ॥

    इस भाष्य को एडिट करें
    Top