Loading...
अथर्ववेद > काण्ड 20 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 9
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२३

    अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑। घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥

    स्वर सहित पद पाठ

    अ॒र्वाञ्च॑म् । त्वा॒ । सु॒खे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ॥ घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हि: । आ॒ऽसदे॑ ॥२३.९॥


    स्वर रहित मन्त्र

    अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना। घृतस्नू बर्हिरासदे ॥

    स्वर रहित पद पाठ

    अर्वाञ्चम् । त्वा । सुखे । रथे । वहताम् । इन्द्र । केशिना ॥ घृतस्नू इति घृतऽस्नू । बर्हि: । आऽसदे ॥२३.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 9

    टिप्पणीः - ९−(अर्वाञ्चम्) अधोगच्छन्तम् (त्वा) त्वाम् (सुखे) सुखकरे सर्वदिक्षु गमनशीले (रथे) रमणीये याने विमाने (वहताम्) द्विकर्मकः। प्रापयताम् (इन्द्र) हे परमैश्वर्यवन् राजन् (केशिना) अ० ९।१०।२६। काशृ दीप्तौ-अच् घञ् वा, इनि, काशी सन् केशी। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। प्रकाशवन्तौ अग्नियुक्तौ (घृतस्नू) घृतम् उदकनाम-निघ० १।१२। ष्णु प्रस्रवणे-क्विप्। घृतस्य जलस्य स्नु वाष्पेण स्रवणं ययोस्तौ पदार्थौ (बर्हिः) अन्तरिक्षं प्रति-निघ० १।३। (आसदे) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सीदतेः केन्-प्रत्ययः कृत्यार्थे। आसादनाय। उपवेशनाय ॥

    इस भाष्य को एडिट करें
    Top