Loading...
अथर्ववेद > काण्ड 20 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 7
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२३

    व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे। उ॒त त्वम॑स्म॒युर्व॑सो ॥

    स्वर सहित पद पाठ

    व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयव॑: । ह॒विष्म॑न्त: । ज॒रा॒म॒हे॒ ॥ उ॒त । त्वम् । अ॒स्म॒ऽयु: । व॒सो॒ इति॑ ॥२३.७॥


    स्वर रहित मन्त्र

    वयमिन्द्र त्वायवो हविष्मन्तो जरामहे। उत त्वमस्मयुर्वसो ॥

    स्वर रहित पद पाठ

    वयम् । इन्द्र । त्वाऽयव: । हविष्मन्त: । जरामहे ॥ उत । त्वम् । अस्मऽयु: । वसो इति ॥२३.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 7

    टिप्पणीः - ७−(वयम्) (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायवः) सुप आत्मनः क्यच्। पा० ३।१।८। युष्मद्-क्यच्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। क्याच्छन्दसि। पा० ३”।२।१७०। इति उप्रत्ययः। त्वां कामयमानाः (हविष्मन्तः) दातव्यवस्तूपेताः (जरामहे) स्तुमः, त्वाम् (उत) अपि च (त्वम्) (अस्मयुः) अस्मद्-क्यचि उ प्रत्ययो दकारलोपश्छान्दसः। अस्मान् कामयमानः (वसो) हे श्रेष्ठ ! निवासयितः ॥

    इस भाष्य को एडिट करें
    Top