अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 8
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि। इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥
स्वर सहित पद पाठमा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒च॒: । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ॥ इन्द्र॑ । स्व॒धा॒ऽव॒: । मत्स्व॑ । इ॒ह ॥२३.८॥
स्वर रहित मन्त्र
मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि। इन्द्र स्वधावो मत्स्वेह ॥
स्वर रहित पद पाठमा । आरे । अस्मत् । वि । मुमुच: । हरिऽप्रिय । अर्वाङ् । याहि ॥ इन्द्र । स्वधाऽव: । मत्स्व । इह ॥२३.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(मा) निषेधे (आरे) दूरे (अस्मत्) अस्मत्तः (वि) वियुज्य (मुमुचः) मुच्लृ मोक्षणे ण्यन्तस्य छान्दसे लुङि चङि रूपम्, अभ्यासस्य दीर्घाभावः, माङ्योगेऽडभावः। मोचय-आत्मानम् (हरिप्रिय) हरयो मनुष्य-नाम-निघ० २।३। हरीणां मनुष्याणां प्रिय हितकर (अर्वाङ्) अभिमुखं गच्छन् (याहि) गच्छ (इन्द्र) हे परमैश्वर्यवन् राजन् (स्वधावः) बह्वन्नवन् (मत्स्व) आनन्द (इह) अत्र ॥
इस भाष्य को एडिट करें