अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 2
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक्। अयु॑ज्रन्प्रा॒तरद्र॑यः ॥
स्वर सहित पद पाठस॒त्त: । होता॑ । न॒: । ऋ॒त्विय॑: । ति॒स्ति॒रे । ब॒र्हि: । आ॒नु॒षक् ॥ अयु॑ज्रन् । प्रा॒त: । अद्र॑य: ॥२३.२॥
स्वर रहित मन्त्र
सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्। अयुज्रन्प्रातरद्रयः ॥
स्वर रहित पद पाठसत्त: । होता । न: । ऋत्विय: । तिस्तिरे । बर्हि: । आनुषक् ॥ अयुज्रन् । प्रात: । अद्रय: ॥२३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सत्तः) षद्लृ विशरणगत्यवसादनेषु-क्त। निषण्णोऽस्ति (होता) आदाता (नः) अस्माकम् (ऋत्वियः) अ० ३।२०।१। सर्वकालेषु प्राप्तः (तिस्तिरे) स्तॄञ् आच्छादने-कर्मणि लिट्। ॠत इद्धातोः। पा० ७।१।१००। इति इत्वम्, द्विर्वचनम्। शर्पूर्वाः खयः। पा० ७।४।६१। इति तकारस्य शेषः। लिटस्तझयोरेशिरेच्। पा० ३।४।८१। इति एश् इत्यादेशः। आच्छादितं बभूव (बर्हिः) उत्तममासनम् (आनुषक्) अ० ४।३२।१। निरन्तरम्। यथाविधि (अयुज्रन्) संगता अभूवन् (प्रातः) प्रातःकाले (अद्रयः) अद्रिर्मेघनाम-निघ० १।१०। मेघा इवोपकारिणः पुरुषाः ॥
इस भाष्य को एडिट करें