Loading...
अथर्ववेद > काण्ड 20 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 5
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२३

    म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म्। इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥

    स्वर सहित पद पाठ

    म॒तय॑: । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑स: । पति॑म् ॥ इन्द्र॑म् । व॒त्सम् । न । मा॒तर॑: ॥२३.५॥


    स्वर रहित मन्त्र

    मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्। इन्द्रं वत्सं न मातरः ॥

    स्वर रहित पद पाठ

    मतय: । सोमऽपाम् । उरुम् । रिहन्ति । शवस: । पतिम् ॥ इन्द्रम् । वत्सम् । न । मातर: ॥२३.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 5

    टिप्पणीः - −(मतयः) मेधाविनः-निघ० ३।१। (सोमपाम्) ऐश्वर्यरक्षकम् (उरुम्) महान्तम् (रिहन्ति) रिहतिरर्चतिकर्मा-निघ० ३।१४। कामयन्ते (शवसः) बलस्य (पतिम्) पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (वत्सम्) गोशिशुम् (न) इव (मातरः) जनन्यो गावः ॥

    इस भाष्य को एडिट करें
    Top