Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 5
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२५

    य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि। आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥

    स्वर सहित पद पाठ

    य॒ज्ञै: । अथ॑र्वा । प्र॒थ॒म: । प॒थ: । त॒ते॒ । तत॑: । सूर्य॑: । व्र॒त॒पा: । वे॒न: ।आ । अ॒ज॒नि॒ ॥ आ । गा: । आ॒ज॒त् । उ॒शना॑ । का॒व्य: ।सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥२५.५॥


    स्वर रहित मन्त्र

    यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि। आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥

    स्वर रहित पद पाठ

    यज्ञै: । अथर्वा । प्रथम: । पथ: । तते । तत: । सूर्य: । व्रतपा: । वेन: ।आ । अजनि ॥ आ । गा: । आजत् । उशना । काव्य: ।सचा । यमस्य । जातम् । अमृतम् । यजामहे ॥२५.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 5

    टिप्पणीः - −(यज्ञैः) संगतिकरणैः। परमाणूनां संगमैः (अथर्वा) अ० ४।१।७। नञ्+थर्व चरणे-गतौ-वनिप्, वलोपः। निश्चलः परमेश्वरः (प्रथमः) सर्वेषामादिः (पथः) मार्गान् (तते) तनु विस्तारे-लिट्, छान्दसं रूपम्। तेने। विस्तारितवान् (सूर्यः) सवितृलोकः (व्रतपाः) नियमपालकः (वेनः) कमनीयः (आ) समन्तात् (अजनि) जनी प्रादुर्भावे-लुङ्। प्रादुरभूत् (आ) समन्तात् (गाः) गमनशीलान् पृथिव्यादिलोकान् (आजत्) अज गतिक्षेपणयोः-लङ्। प्रक्षिप्तवान्। आकर्षणे धारितवान् (उशना) वशेः क्नसि। उ० ४।२३९। वश कान्तौ-क्नसि, सम्प्रसारणं च। ऋदुशनस्पुरदंशोऽनेहसां च। पा० ७।१।९४। अनङ् आदेशः। सर्वनामस्थाने चा०। पा० ६।४।८। उपधादीर्घः। हल्ङ्याञ्भ्यो०। पा० ६।१।६८। सुलोपः। नलोपः प्रातिपदिकान्तस्य। पा० ८।२।७। नलोपः। कमनीयः (काव्यः) अ० ४।१।६। कवृ स्तुतौ-ण्यत्। स्तुत्यः सूर्यः (सचा) षच समवाये-क्विप्। सम्मेलनेन (यमस्य) सर्वनियन्तुः परमेश्वरस्य (जातम्) उत्पन्नम्। प्रसिद्धम् (अमृतम्) अमरणम्। मोक्षसुखं जीवनसामर्थ्यं वा (यजामहे) संगच्छामहे। प्राप्नुमः ॥

    इस भाष्य को एडिट करें
    Top