Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 6
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२५

    ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥

    स्वर सहित पद पाठ

    ब॒र्हि: । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्क:। वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ॥ ग्रावा॑ । यत्र॑ । वद॑ति । का॒रु: । उ॒क्थ्य॑: । तस्य । इत् । इन्द्र॑: । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥२५.६॥


    स्वर रहित मन्त्र

    बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥

    स्वर रहित पद पाठ

    बर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 6

    टिप्पणीः - ६−(बर्हिः) उत्तमासनम् (वा) वेति विचारणार्थे-निरु० १।४। विचारपूर्वकम् (यत्) यदा (स्वपत्याय) गुणिने सन्तानाय (वृज्यते) वृजी वर्जने। त्यज्यते। दीयते (अर्कः) पूजनीयः पण्डितः (वा) अथवा (श्लोकम्) वाणीम् (आघोषते) घुषिर् विशब्दने। उच्चारयति (दिवि) व्यवहारे (ग्रावा) मेघनाम-निघ० १।१०। मेघ इवोपकारी (यत्र) यस्मिन् देशे (वदति) उपदिशति (कारुः) शिल्पकर्ता विद्वान् (उक्थ्यः) प्रशंसनीयः (तस्य) पूर्वोक्तस्य सर्वस्य (इत्) एव (इन्द्रः) परमैश्वर्यवान् पुरुषः (अभिपित्वेषु) जनिदाच्यु०। उ० ४।१०४। पि गतौ-त्वन् प्रत्ययः। अभिप्राप्तिषु। संगमेषु (रण्यति) रमु क्रीडायाम्-छान्दसः श्यन् परस्मैपदं मकारस्य नत्वं च। रमते। आनन्दितो भवति ॥

    इस भाष्य को एडिट करें
    Top