Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 3
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२५

    अधि॒ द्वयो॑रदधा उ॒क्थ्यं वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑। असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥

    स्वर सहित पद पाठ

    अधि॑ । द्वयो॑: । अ॒द॒धा॒: । उ॒क्थ्य॑म् । वच॑: । य॒तऽस्रु॑चा। मि॒थु॒ना । या । स॒प॒र्यत॑: ॥ अस॑म्ऽयत्त: । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्ति: । यज॑मानाय । सु॒न्व॒ते ॥२५.३॥


    स्वर रहित मन्त्र

    अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः। असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥

    स्वर रहित पद पाठ

    अधि । द्वयो: । अदधा: । उक्थ्यम् । वच: । यतऽस्रुचा। मिथुना । या । सपर्यत: ॥ असम्ऽयत्त: । व्रते । ते । क्षेति । पुष्यति । भद्रा । शक्ति: । यजमानाय । सुन्वते ॥२५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 3

    टिप्पणीः - ३−(अधि) उपरि (द्वयोः) स्त्रीपुरुषोः (अदधाः) धारितवानसि (उक्थ्यम्) कथनीयं स्तुत्यम् (वचः) वचनम् (यतस्रुचा) यमु उपरमे-क्त। चिक् च। उ० २।६२। स्रु गतौ-चिक्। यता नियताः स्रुचः चमसा भोजनसाधनानि याभ्यां तौ (मिथुना) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।। मिथृ मेथृ संगमे वधे मेधायां च-उनन्, कित्। मिलितौ स्त्रीपुरुषौ (या) यौ (सपर्यतः) सपर पूजायाम्-कण्ड्वादित्वाद् यक्। सपर्यतिः परिचरणकर्मा-निघ० ३।। परिचरतः। सेवेते (असंयत्तः)। नञ्+सम्+यती प्रयत्ने-क्त। अनायत्तः। अवशीभूतः। स्वतन्त्रः (व्रते) नियमे (ते) तव (क्षेति) क्षि निवासगत्योः विकरणस्य लुक्। क्षियति। निवसति (पुष्यति) पुष्टो भवति (भद्रा) कल्याणी (शक्तिः) समर्थता (यजमानाय) पूजासंगतिदानशीलाय (सुन्वते) षु ऐश्वर्ये-शतृ, स्वादित्वं छान्दसम्। ऐश्वर्यवते ॥

    इस भाष्य को एडिट करें
    Top