Loading...
अथर्ववेद > काण्ड 20 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 1
    सूक्त - कुरुसुतिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४२

    वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्। इन्द्रा॒त्परि॑ त॒न्वं ममे ॥

    स्वर सहित पद पाठ

    वाच॒म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ॥ इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥४२.१॥


    स्वर रहित मन्त्र

    वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्। इन्द्रात्परि तन्वं ममे ॥

    स्वर रहित पद पाठ

    वाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ॥ इन्द्रात् । परि । तन्वम् । ममे ॥४२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 1

    टिप्पणीः - इस मन्त्र का मिलान करो-अथर्व० १३।१।४२। यह सूक्त ऋग्वेद में है-८।७६ [सायणभाष्य ६]। १२, ११, १० और कुछ भेद से सामवेद-उ० ३।२। तृच ९ ॥ १−(वाचम्) वेदवाणीम् (अष्टापदीम्) अ० १३।१।४२। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इत्यष्टैश्वर्याणि पदानि प्राप्तव्यानि यया ताम् (अहम्) उपासकः (नवस्रक्तिम्) स्रक् स्रकि गतौ-क्तिन्। मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैः प्राप्तव्याम्। नवपदीम्-अ० १३।१।४२। (ऋतस्पृशम्) ऋतस्य सत्यनियमस्य स्पर्शयित्रीं प्रापयित्रीम् (इन्द्रात्) परमैश्वर्ययुक्तात् परमेश्वरात् (तन्वम्) विस्तृतां सूक्ष्मां वा (परि ममे) परिमापितवानस्मि। सर्वतो ज्ञातवानस्मि ॥

    इस भाष्य को एडिट करें
    Top