Loading...
अथर्ववेद > काण्ड 20 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 2
    सूक्त - कुरुसुतिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४२

    अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्। इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥

    स्वर सहित पद पाठ

    अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ॥ इन्द्र॑ । इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑व: ॥४२.२॥


    स्वर रहित मन्त्र

    अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्। इन्द्र यद्दस्युहाभवः ॥

    स्वर रहित पद पाठ

    अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ॥ इन्द्र । इन्द्र । यत् । दस्युऽहा । अभव: ॥४२.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 2

    टिप्पणीः - २−(अनु) अनुसृत्य (त्वा) त्वाम् (रोदसी) आकाशभूमी (उभे) (क्रक्षमाणम्) कृष विलेखने आकर्षणे-लृट्। स्यतासी लृलुटोः। पा० ३।१।३३। इति स्य। लृटः सद्वा। पा० ३।३।१४। लृटः शानच्, यकारलोपश्छान्दसः। क्रक्ष्यमाणम्। आकर्षन्तम् वशे कुर्वन्तम् (अकृपेताम्) कृपू सामर्थ्ये लङ्। समर्थेऽभवताम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (यत्) यदा (दस्युहा) शत्रूणां विघ्नानां नाशकः (अभवः) ॥

    इस भाष्य को एडिट करें
    Top