Loading...
अथर्ववेद > काण्ड 20 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 3
    सूक्त - कुरुसुतिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४२

    उ॑त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः। सोम॑मिन्द्र च॒मू सु॒तम् ॥

    स्वर सहित पद पाठ

    उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्र इति॑ । अ॒वे॒प॒य॒: ॥ सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥४२.३॥


    स्वर रहित मन्त्र

    उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः। सोममिन्द्र चमू सुतम् ॥

    स्वर रहित पद पाठ

    उत्ऽतिष्ठन् । ओजसा । सह । पीत्वी । शिप्र इति । अवेपय: ॥ सोमम् । इन्द्र । चमू इति । सुतम् ॥४२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 3

    टिप्पणीः - ३−(उत्तिष्ठन्) ऊर्ध्वं गच्छन् (ओजसा) बलेन (सह) (पीत्वी) अ० २०।६।७। पीत्वा (शिप्रे) अ० २०।३१।४। हनू (अवेपयः) अकम्पयः चालितवानसि (सोमम्) अन्नादिमहौषधिरसम् (चमू) सुपां सुलुक्०। पा० ७।१।३९। सप्तम्याः पूर्वसवर्णः। चम्वाम्। भोजनपात्रे। चमसे (सुतम्) संस्कृतम् ॥

    इस भाष्य को एडिट करें
    Top